आदि सचु जुगादि सचु ॥
है भी सचु नानक होसी भी सचु ॥१॥
आदेः सद् युगादेः सत् । सदस्ति हि नानक भविष्यति
सत् ॥
॥ जपः ॥
सोचै सोचि न होवई जे सोची लख वार ॥
चुपै चुप न होवई जे लाइ रहा लिव तार ॥
शुच्या शुचिर्न भवेत् यद्धावति लक्षवारम्। मनसो न
शाम्येत् कृत्वा समाधौ संहारम्।
यद्यहं सम्प्रक्षालो लक्षवारमपि (स्नानादिभिः शरीरस्य) स्वच्छतां पालयेयं,
(तथापि ईदृश्या) शुच्या (मनसः) स्वच्छता न रक्ष्येत। यद्यहं
(शरीरम्) एकाग्रतया समाधिना धरेयं, (तथापि अमुष्या रीत्या)
मौनं साधयित्वा मनो न शाम्येत्।
भुखिआ भुख न उतरी जे बंना पुरीआ भार ॥
सहस सिआणपा लख होहि त इक न चलै नालि ॥
क्षुधां बुभुक्षु र्नोत्तरेद् ऊढ्वा लोकभारम्
।
सहस्र-कौशल्यं लक्षं गते नायात्येको तत्साकम् ॥
सहस्र-कौशल्यं लक्षं गते नायात्येको तत्साकम् ॥
यद्यहं सर्वेषां भवनानां द्रव्यस्य राशिम् (अपि) संभरेयं, तथापि तृष्णाया अधीनस्य मे तृष्णा दूरं नापयाति। (मयि) सहस्रं लक्षं वा
चातुर्याणि भवेयुश्चेदपि (तेषु) एकमपि चातुर्यं मे साहाय्यं न दास्यति।
किव सचिआरा होईऐ किव कूड़ै तुटै पालि ॥
हुकमि रजाई चलणा नानक लिखिआ नालि ॥१॥
कथं सत्यवान् भवेद् अपास्तं च मिथ्याजालम् ।
ईशादेशं पालयेन् नानक सर्वं नित्यसहचारम् ॥१॥
ईशादेशं पालयेन् नानक सर्वं नित्यसहचारम् ॥१॥
(तर्हि) अकालपुरुषस्य प्रकाशार्हः कथं भवेयं,
(अपि च ममान्तरङ्गे) मिथ्यायाः जवनिका कथं विदीर्येत ? स्वामिनः प्रसादस्य
आदेशानुसरणम् (- इयमेकमात्रविधिः)। हे नानक! (विधिरियम्)
जगतः सृष्टेरादित आरभ्य एव लिख्यमाना विद्यते।
हुकमी होवनि आकार हुकमु न कहिआ जाई ॥
हुकमी होवनि जीअ हुकमि मिलै वडिआई ॥
आदेशाद्
भवत्याकार आदेशोऽनिर्वचनीयः।
आदेशाद्धि जीवेद् आदेशाद्धि शोभेत जीवः ॥
आदेशाद्धि जीवेद् आदेशाद्धि शोभेत जीवः ॥
अकालपुरुषस्यादेशानुसारं शरीराणि निर्मीयन्ते,
(परन्तु) इमान्
आदेशान् विवर्तुं न संभवति। ईशादेशानुसारेणैव सर्वे जन्तवः समुद्भवन्ति, तथा
तस्यादेशानुसारेणैव ते (प्रभोर्द्वारमासाद्य) शोभाम् अश्नुवते।
हुकमी उतमु नीचु हुकमि लिखि दुख सुख पाईअहि ॥
इकना हुकमी बखसीस इकि हुकमी सदा भवाईअहि ॥
आदेशाद् उच्चनीचाः स आदिशेद् दुःखसुखाय ।
आदेशात् कस्मैचिद् आशिषोऽन्यस्मै तु विभ्रमाय ॥
आदेशात् कस्मैचिद् आशिषोऽन्यस्मै तु विभ्रमाय ॥
विधातुरादेशात् कश्चित् सद्गुणोपेतो भवति,
कश्चित् विगुणः। तस्यादेशे लिखितं (स्वकर्मणां) फलस्वरूपं दुःखं वा सुखं वा भुञ्जते। आदेशे हि बहुषु मनुष्येषु
(अकालपुरुषस्य द्वारात्) कृपा वर्षति, तथा तस्यादेशे हि केचन
जीवाः जन्ममरणयोश्चक्रे नित्यं भ्रमन्ति।
हुकमै अंदरि सभु को बाहरि हुकम न कोइ ॥
नानक हुकमै जे बुझै त हउमै कहै न कोइ ॥२॥
आदेशस्य सर्वेऽधीना, आदेशम् उल्लङ्घयितुं न कश्चिदर्हः ।
य आदेशं बोधेन् नानक, नाधिकं स्वानुरागेण जल्पति सः॥२॥
य आदेशं बोधेन् नानक, नाधिकं स्वानुरागेण जल्पति सः॥२॥
प्रत्येको जीवः तदादेशस्याधीन एव वर्तते। कोऽपि जीव आदेशगणाद्
बहिर्गन्तुं न शक्यते। हे नानक ! यदि कश्चिद् अकालपुरुषस्यादेशचक्रम् अवगच्छेत् तदनन्तरं सः स्वार्थपूर्णां
वार्तां पुन र्न करोति (अर्थात् सः स्वार्थिनं जीवनं
त्यजति)।
गावै को ताणु होवै किसै ताणु ॥
गावै को दाति जाणै नीसाणु ॥
यस्मिंश्च राजते शक्तिः स स्तौति शक्तिदम् ।
स्वदत्तानि स्तौति कश्चित् तु मत्वा तच्चिह्नंम्।
स्वदत्तानि स्तौति कश्चित् तु मत्वा तच्चिह्नंम्।
यस्य कस्यापि मनुष्यस्य सामर्थ्यं वर्तते,
सः ईश्वरस्य शक्त्याः गायति (भावेन, तस्य गुणकीर्तनं करोति पुनश्च तस्य तानि कर्माणि कथयति यानि तच्छक्तिं
प्रकटीकुर्वन्ति)। कोऽपि मनुष्यस्तु (इमानि दत्तानि प्रभोः
कृपायाः) चिह्नं मत्वा तस्य दत्तानां हि गायति ।
गावै को गुण वडिआईआ चार ॥
गावै को विदिआ विखमु वीचारु ॥
चारुगुणान् उपबृंहयति संस्तूय कश्चित्।
विषम-विद्यां विचारयति संस्तूय कश्चित्।
विषम-विद्यां विचारयति संस्तूय कश्चित्।
कोऽपि मनुष्य ईश्वरस्य सुन्दरान् गुणान् अभिवर्ध्य वर्णयति।
कोऽपि मनुष्यो विद्यायाः बलेन अकालपुरुषस्य
कठिनज्ञानस्य गानं करोति (भावेन, शास्त्रादिभिः
आध्यात्मदर्शनेषु विमर्शयति)।
गावै को साजि करे तनु खेह ॥
गावै को जीअ लै फिरि देह ॥
तनूं सृष्ट्वा करोति भस्म पुनरिति गायति।
प्राणं नीत्वा पुनर्दधातीत्यन्यः ।
प्राणं नीत्वा पुनर्दधातीत्यन्यः ।
कोऽपि मनुष्यः गायति यत् अकालपुरुषः शरीरं निर्माय
पुनर्भस्मसात् करोतीति। अन्यो गायति
यत् हरिः (देहात्) प्राणं निष्कास्य पुनः (नूतने देहे) निदधातीति।
No comments:
Post a Comment