आखहि ईसर आखहि सिध ॥ आखहि केते कीते बुध ॥
आखहि दानव आखहि देव ॥ आखहि सुरि नर मुनि जन सेव ॥
आख्यान्तीश्वरास् तथा सिद्धाः। तदनु कति कृपासिद्ध-बुद्धाः॥
आख्यान्ति दानवास् तथा देवाः। आख्यान्ति सुरा मुनयः सेवकाः॥
कति शिवाः, कति सिद्धाः, तथा कति अकालकृपासिद्धाः बुद्धाः, तस्माज् रचिता देवाः दानवाश्चापि, सुरसदृशाः नराः, मुनयः, सेवकाश्च अकालपुरुषस्य अनुमाने ध्याने च उपकारकाः। एते सर्वे तम् अनुमातुं प्रायस्यन्।
केते आखहि आखणि पाहि ॥ केते कहि कहि उठि उठि
जाहि ॥
एते कीते होरि करेहि ॥ ता आखि न सकहि केई केइ ॥
कति आख्यान् कति यतमानाः। कति कथयन्त उत्थाय गताः॥
एते कृताः कुर्याश्चेद् इतोऽपि। तथापि आख्यातुं न शक्नुयुः कोऽपि॥
अनन्ताः जीवाः यथाशक्ति अकालपुरुषस्य
अनुमानम् अकुर्वन्, इतोऽपि आख्यातुं प्रयतमानाः सन्ति। अनन्ताः जीवात्मानः तस्य
कीर्तनं कृत्वा जगतो दिवङ्गताः। जगति तावन्तः बुद्धिजीविनः जनितवान् त्वं, (हे हरे! परं) यदि इतोऽपि अनन्तान् जीवान्
जनयिष्यसि तथापि कोऽपि तव स्तवं पूर्णतया न कर्तुम् अर्हिष्यति।
जेवडु भावै तेवडु होइ ॥ नानक जाणै साचा सोइ ॥
जे को आखै बोलुविगाड़ु ॥ ता लिखीऐ सिरि गावारा गावारु
॥२६॥
यावद् भावयेत् तावद् भवति। नाणको जानीते सोऽविकार्य इति॥
यस्तम् आख्यान्ति शूरमानी। स तु ग्रामकानामेव शिरोमणिः॥
हे नाणक! परमात्मा यावद् इच्छति तावद्
बृहान् भवति (स्वकीयां शक्तिं वितनोति इत्यर्थे)। सः सदैव स्थिरः स्वयमेव जानीते कियान्
बृहान् इति। यदि कश्चित् वाग्मी तं निरूपयितुं प्रयतेत तर्हि सः मनुष्येषु
महामूर्खः इव परिगण्येत। विदुषि सत्यपि सः ग्राम्यजनाः इव प्रज्ञाहीनः सन् प्रलपति
इति अवगन्तव्यम्। याथार्थविद्वान् परमात्मनो रूपादीनां विषये मौनम् आस्थाय तस्य
गुणान् कीर्तयति।
सो दरु केहा सो घरु केहा जितु बहि सरब
समाले ॥
वाजे नाद अनेक असंखा केते वावणहारे ॥
केते राग परी सिउ कहीअनि केते गावणहारे ॥
तद्द्वारं किं, तद्गृहं किं, यत्रासीनः सर्वं संभालयेः।
कति वादयन्ति नादं वादयितारो नैके।
रागान् कति साप्सरसं कलयन्ति गातारो नैके।
तद् द्वारं तद्गृहं च बृहदेव, आश्चर्यं हि (हे निरङ्कार!), यत्र उपविश्य त्वं समस्तजीवान् संभालयसि। (त्वया रचितायां प्रकृत्यांम् अस्यां) अनेके अगण्याश्च वादित्राणि तथा रागाः सन्ति। तानि वाद्यानि वादयितुम् अनन्ताः हि जीवाः सन्ति। रागिणीभिः सह अनन्ताः रागाः गीयन्ते।
No comments:
Post a Comment