अङ्गः २

गावै को जापै दिसै दूरि ॥
गावै को वेखै हादरा हदूरि ॥

स विष्ठले दूरो भातीति कश्चित्। 
सर्वत्रगः साक्षीति गायत्यपरः।

कश्चिन् मनुष्यो वदति यत् अकालपुरुषो दूरस्थ इति भासत इति। अन्यः कोऽपि वदति यत् (नहि, समीपे वर्तते) सर्वस्मिन् स्थाने विद्यमानोऽस्ति सः, सर्वं वीक्षमाणोऽस्ति सः।

कथना कथी न आवै तोटि ॥
कथि कथि कथी कोटी कोटि कोटि ॥


कथायाः कथने नायातो रोधोऽन्तः। 
कथयन्ति कथयन्तः कोटयः कोटिशः।

कोटयः जीवा अनन्तवारं (अकालपुरुषस्यादेशं) व्यवारिषुः। किन्त्वादेशक्रमस्य वर्णनकृतीनां सन्ततौ न्यूनता न जाता। (भावेन, वर्णनं कृत्वा कृत्वापि आदेशस्याऽवसानं न लब्धं, तस्य च प्रामाणिक-स्वरूपोऽन्विष्टो नाभूत्।

देदा दे लैदे थकि पाहि ॥
जुगा जुगंतरि खाही खाहि ॥


प्रतिग्राहिणो ग्लायन्ति ददाने दातरि। 
युगे यगान्तरे खादन्तस्तावति।

दाता अकालपुरुषः (सर्वजीवानां योगक्षेमं) वहति ददाति च, परं जीवा लब्ध्वा लब्ध्वा श्रान्ता भवन्ति। (सर्वे जीवाः) सदा हि (ईश्वरेण दीयमानान् पदार्थान्) खादन्त आगच्छन्तः सन्ति।

हुकमी हुकमु चलाए राहु ॥
नानक विगसै वेपरवाहु ॥३॥


चालयेत् पथः शासनं शासः। 
नानक तस्यानन्दो विकासः

आदेशकर्तुर् विधातुर् आदेशो हि (संसारस्य कार्याणां) मार्गांश्चालयन्नस्ति। हे नानक ! स निरङ्कारो निश्चिन्तः, प्रसन्नस्तिष्ठति। (भावेन, यद्यपि ईश्वरः क्षणं क्षणं संसारस्य अनन्त-जीवेभ्यः पदार्थान् योगक्षेमं च कल्पयन्नस्ति, तथापि तादृशे बृहति कार्ये तस्य किञ्चिदपि वैक्लव्यं व्याकुलता वा न भवति। स सदा प्रसन्नायाम् अवस्थायां वर्तते। तादृशे बृहति प्रसारे तस्य संसृष्टो भवितुं नापतति। तस्यैक अनुष्ठानरूप्यादेशो हि समस्तव्यवहारं निर्वहति। प्रभोः कार्याणि पृथक् पृथक् दृष्ट्वा मनुष्यः स्वबोधानुगुणं प्रभोर् आदेशरूपिणीं शक्तिम् अनुमातुं शक्नोति, परन्तु कयापि दृशा पूर्णतयानुमातुं न पारयति।)

साचा साहिबु साचु नाइ भाखिआ भाउ अपारु ॥
आखहि मंगहि देहि देहि दाति करे दातारु ॥


ध्रुवः शात् तस्य नैष्ठिको न्यायः, तद्भाषा प्रेमभावोऽपारः। 
आख्यामो याचामहे देहि देहीति, ददाति नो दातारः

अकालपुरुषः सदा स्थिरस्तिष्ठति, तस्य नियमोऽपि तदाऽटलः। तस्य भाषा साक्षात् प्रेम, स अकालपुरुषः अनन्तोऽस्ति। वयं जीवाः तस्मात् दानानि अभियाचामहे, हे हरे, अस्मान् अमुकेनानुगृहाण इति वदामः। दातारो ऽनुग्रहं वर्षयन्ति। अवहितं भवतु यत् तस्य भाषा प्रेमभावोऽस्तीति। प्रेम हि एक उपायो वर्तते यस्य द्वारा स अस्माभिश् चर्चयति, वयं च तेन सह संवदितुं शक्नुमः।

फेरि कि अगै रखीऐ जितु दिसै दरबारु ॥
मुहौ कि बोलणु बोलीऐ जितु सुणि धरे पिआरु ॥


अथ किम् नैवेद्यं पुरस्कुर्यां, येन राजसभा दृश्येत। 
मया का उच्येरन् वचो, याः श्रुत्वा सः प्रीतिं धरेत्।

(यदि सर्वं कामं स कालक्रमेण पूरयन्नस्ति, तर्हि) वयं कीदृशम् उपहारम् अर्पयेम, येन व्याजेन तस्य राजसभा दृष्टिगोचरा भवेत् ? वदनेन किं वचनं ब्रूमहि (भावेन, काम् अर्दाशम् – अर्दयित्वा आशासं - कुर्याम) यच्छ्रुत्वा स हरि र्अस्मासु प्रीणीयात् ?

अम्रित वेला सचु नाउ वडिआई वीचारु ॥
करमी आवै कपड़ा नदरी मोखु दुआरु ॥

नानक एवै जाणीऐ सभु आपे सचिआरु ॥४॥


अमृतवेला सत्यनाम तद्वर्धयन् विचारः। 
कृपया पटं मोक्षो द्वारम्। नानकैवं जानीहि, सर्वत्रात्मनः सहचारः।

पूर्णविकाशस्य समयो भूयात् (भावेन, उषःकालो भूयात्), हरेर्नाम स्मरेत्, तथा तस्य अभिवर्धनं विमर्शयेत्। (एवं रीत्या) प्रभोः कृपाकटाक्षेण सद्गुणरूपि पटं लभ्यते, तस्य कृपादृष्ट्या अनृतस्य भित्ति र्नश्यति, मुच्यते आत्मा, किञ्चेश्वरस्य देहली प्राप्यते। हे नानक ! अनेन प्रकारेण (एभिः प्रयत्नैः सहाकालपुरुषस्य कृपया) बोध उपजायते यत् स सत्तापतिर् अकालपुरुषः सर्वव्यापको विद्यते। (दान-पुण्याभ्यां अथवा किमपि धन-सम्पदाम् अर्पयित्वा प्रभुजीवयो र्दूरी न नश्यति। यतोहि तानि दानानि प्रभुनैव दत्तानि। तेन प्रभुना संवादं केवलं तस्यैव भाषया साधयेत्, यस्या नामास्ति प्रेमेति। यो मनुष्यः प्रभातकाल उत्थाय तस्य स्मरणे युङ्क्ते, सः प्रेमपटं लभते, यस्याशिषा तस्य सर्वत्र परमात्मा हि दृष्टो भवितुम् आरभते।)

थापिआ न जाइ कीता न होइ ॥
आपे आपि निरंजनु सोइ ॥


स्थापनेन न जायेत, न भूयेत कल्पितः। 
आत्मनैव निरञ्जनः स्वयंभूः सः।

सः अकालः पुरुषः मायायाः प्रभावात् परो विद्यते (यतः) सः पूर्णतः स्वयं हि स्वयम् अस्ति, न तस्य जन्म कारयेत्, न ह्यस्माकं परिकल्पितेन निर्मीयेत।

जिनि सेविआ तिनि पाइआ मानु ॥
नानक गावीऐ गुणी निधानु ॥


योऽसेविष्ट सोऽलप्सि मानम्। 
नानक गाय, स गुणी निधानः।

यो मनुष्यस्तम् अकालपुरुषम् अस्मरत् स एव आदृतः सत्कृतश् चाभूत्। हे नानक ! (एहि) आवामपि तं गुणनिधिं हरिं स्तुयाव।

गावीऐ सुणीऐ मनि रखीऐ भाउ ॥
दुखु परहरि सुखु घरि लै जाइ ॥


गायेत् शृणुयान् मनसि रक्षेद् भावम्। 
दुःखं परिहार्य सुखम् आनय गृहम्।

(एहि ! अकालपुरुषस्य गुणान्) गायेव शृणुयाव च, आत्मनोर् मनसि तन्निमित्तं प्रेम संन्यस्येव नु। (यो मनुष्यस्तम् आहरेत्, प्रयतेत, सः) आत्मनो दुःखं दूरम् अपास्य हृदि सुखं वासयति।

गुरमुखि नादं गुरमुखि वेदं गुरमुखि रहिआ समाई ॥
गुरु ईसरु गुरु गोरखु बरमा गुरु पारबती माई ॥


गुरुमुखो नादो गुरुमुखो वेदो गुरुमुखः समायातो रहति। 
गुरुरीश्वरो गुरुर्गोरक्षो गुरुर्ब्रह्मा गुरुर्माता पार्वती।

(परन्तु अस्येश्वरस्य) नाम ज्ञानं च गुरोर्द्वारा (प्राप्येते)। गुरुद्वारा हि (इयं प्रतीतिरुद्भवति यत्) स हरिः सर्वव्यापीति। गुरुरेव (नः) शिवं, गुरुरेव (नो) गोरक्षं, ब्रह्माणं च तथा गुरुर्हि (नः) पार्वतीं मातरं प्रतिबिम्बीकुरुते।

जे हउ जाणा आखा नाही कहणा कथनु न जाई ॥
गुरा इक देहि बुझाई ॥

सभना जीआ का इकु दाता सो मै विसरि न जाई ॥५॥


यज् ज्ञात्वा स्याद् आख्या न हि, कथाया कथनं न जायेत। 
गुरवेका विज्ञातिर्दीयेत। 
सर्वजीवानाम् एको दाता, स न विस्मृतो जायेत।

पुनः (एतम् अकालपुरुषं) विजानीथाश्चेत् (अपि), (तथापि) तं वर्णयितुं न पारयेयम्। (अकालस्य पुरुषस्यादेशस्य) कथनं न क्रियेत। (मम तु) हे सत्गुरो ! (तव सविध एवम् अर्दाशोऽस्ति -) मह्यम् प्रज्ञांम् इमां देहि यत् सर्वेषां जीवानां ददान एक एव दाता, तं च कदापि न जातु विस्मरेयम् इति। (प्रेम मनसि वासयित्वा यो मनुष्यः प्रभोः स्मरणे युङ्क्ते स हृदये सदा सुखं शान्तिं चाश्नुते। किन्त्विदम् अनुध्यानं, सुदास्यमिदं, गुरोः सामीप्येनैव लभ्यते। गुरुर्हि दृढीकुरुते यद् ईशावास्यम् इदं सर्वम् इति, गुरुद्वारा हि प्रभुजीवयोर्दूरता दूरीभवति। अत एव गुरोः सविधे हि दासताया दानं प्रार्थ्येत।)

तीरथि नावा जे तिसु भावा विणु भाणे कि नाइ करी ॥
जेती सिरठि उपाई वेखा विणु करमा कि मिलै लई ॥


तीर्थे स्नात्वा यः प्रसीदेत्, विना तद्भावं तु किं लाभाय। 
यावद् उपजातं सृष्टिम् ईक्षितं, विना कृपां किं मिलत्यादाय।

अहं तीर्थान् गत्वा तदा स्नायां यदा तत्करणेन परमात्मानं प्रसीदयेयम्। परन्तु यदि तथा कृत्वा परमात्मा न प्रसीदेत् तर्हि (तीर्थेषु) स्नात्वा को लाभः ? ईश्वरेण संजातानि यावत् सृष्टौ वीक्षे, (तावत्) परमात्मनः कृपया विना केनस्वित् किं लब्धम् ? कोऽपि किमपि नेतुं नाशकत्।

मति विचि रतन जवाहर माणिक जे इक गुर की सिख सुणी ॥

रत्नं रलं च माणिको मत्याम्, श्रुतायां गुरोः शिक्षायाम्।

यदि सत्गुरोरेका शिक्षा श्रूयेत, तर्हि मनुष्यस्य बुद्ध्या अन्तः रत्नानि, मणयः, मौक्तिकाश्च (उपजायन्ते, अर्थात् परमात्मनो गुणा उपजायन्ते)।

गुरा इक देहि बुझाई ॥
सभना जीआ का इकु दाता सो मै विसरि न जाई ॥६॥


गुरवेका विज्ञातिर्दीयेत। 
सर्वजीवानाम् एको दाता, स न विस्मृतो जायेत।

(अत एव) हे सत्गुरो ! (मम तव सविधे प्रार्थनेयम्, अर्दाशोऽयम् अस्ति यत्) मह्यं प्रज्ञाम् इमां देहि, यया सर्वेषां जीवानां ददानं एकम् एव दातारे कदापि न जातु विस्मरेयम्। (तीर्थेषु स्नानम् अपि प्रभोः प्रसादस्य प्रेम्णः प्राप्त्यै फल्गुर् उपायः। यस्योपरि कृपा-मिहिरो भासते, स गुरोः पथि चलित्वा प्रभोरनुध्याने युञ्जीत। अलम् ! तस्यैव मनुष्यस्य मत्यां हिल्लोला उद्भवन्ति।

जे जुग चारे आरजा होर दसूणी होइ ॥
नवा खंडा विचि जाणीऐ नालि चलै सभु कोइ ॥


युगचतुष्टयम् आयुश्चेत्, तस्यापि दशगुणम्। 
समस्ते षण्डे ज्ञायेत चेत्, तं सर्वः कोऽप्यनुचरेत्।

यदि कस्यचित् मनुष्यस्य चतुर्युगसमम् आयुर्भवेत्, (किं बहुना) तस्यापि दशगुणसमम् आयुर्भवेत्, यदि वा कृत्स्ने गणे स प्राकट्यं प्राप्नुयात् सर्वो जनश्च तस्यानुसरणं कुर्यात्...।

चंगा नाउ रखाइ कै जसु कीरति जगि लेइ ॥
जे तिसु नदरि न आवई त वात न पुछै के ॥

कीटा अंदरि कीटु करि दोसी दोसु धरे ॥


चङ्गं नाम रक्षन् स कीर्तिं यशो जगति लभेत। 
यस्मिंस्तु न दृग् आपतिता, तद्वार्तां न कोऽपि पृच्छेत्। 
कीटेषु यः कीटः कृतः स दोषी दोषं धरेत्।

यदि कोऽपि शोभमानं नामार्जयित्वा समस्ते संसारे कीर्तिं प्राप्नुयात्, परन्त्वकालस्य पुरुषस्य मिहिरस्य रश्मिपथ आगन्तुं न शक्नुयात्, तर्हि स ईदृशो भवति यथा कोऽपि तस्य वार्तांम् अपि न पृच्छेत् (अर्थात्, तावन् माने सत्कारे च सति स निरास्थो वर्तते)। (प्रत्युत ईदृशो मनुष्यो ऽकालपुरुषस्य पुरतः) कश्चित् साधारणः कीटसमो ऽस्ति (खसमै नदरी कीड़ा आवै। - राग आशा, महालयः १)। अकालपुरुषस्तम् अपराधिनमिति लक्षित्वा (तस्मिन् नाम-विस्मृतेर्) दोषम् आरोपयति।

नानक निरगुणि गुणु करे गुणवंतिआ गुणु दे ॥
तेहा कोइ न सुझई जि तिसु गुणु कोइ करे ॥७॥


नानक निर्गुणं गुणिनं कुर्वीत, गुणवते स गुणं ददीत। 
तथा न कोऽपि संलक्ष्यते, यस्तं गुणिनं कुर्वीत।

हे नानक ! सो ऽकालपुरुषो गुणहीने मनुष्ये गुणम् उत्पादयति, ततथा गुणीषु जीवेष्वपि गुणान् स एव दधाति। ईदृशो ऽन्यः कोऽपि न दृश्यते यो निर्गुणेभ्यो जीवेभ्यः कमपि गुणं दातुं शक्नुयात्। (प्रभो र्मिहिरस्य दृष्टिर्हि तम् उद्धरेत्, दीर्घायु र्जगतश्च शोभा साहाय्यं न कुर्वीयाताम्। प्राणायामस्य सहायेन दीर्घायुषं वर्धयित्वा जगति यद्यपि मनुष्यः प्रतिष्ठां सम्पादयेत्, परं यदि स दास्य-रसेन रहितः स्यात् तर्हि प्रभो र्महिरस्य पात्रं न भवेत्। प्रभो र्दृशि तु स नामहीनो जीवः क्षुद्रः कीटो हि वर्तते। अयं दास्यगुणः जीवाय परमात्मनो मिहिरेणैव प्राप्येत।)

अवधेयम् – सोपानं ८-तः ११-पर्यन्तं चत्वारि एकस्मिन् शालार एव वर्तन्ते। तेषां सहयुग् आशय एतदस्ति यत् ये प्रभोः स्मरणे चित्तं युञ्जमानाः सन्ति, तेषां मनांसि सदैवानन्दितानि वर्तन्ते।

सुणिऐ सिध पीर सुरि नाथ ॥ सुणिऐ धरति धवल आकास ॥
सुणिऐ दीप लोअ पाताल ॥ सुणिऐ पोहि न सकै कालु ॥

नानक भगता सदा विगासु ॥ सुणिऐ दूख पाप का नासु ॥८॥


श्रवणेन सिद्ध ऋषिः सुरो नाथः। श्रवणेन धरति धवल आकाशः। 
श्रवणेन द्वीपो लोकः पातालम्। श्रवणेन भीषयति न कालः। 
नानक भक्तस्य सदा विकासः। श्रवणेन दुःख-पापयो र्नाशः।

हे नानक ! (अकालपुरुषस्य नामनि श्रवणं योजयतां) भक्तजनानां हृदयेषु सदानन्दो वर्तते, (यतोहि) तस्य गुणकीर्तनस्य श्रवणेन (मनुष्यस्य) दुःखानां किल्बिषानां च नाशो जायते। नाम्नो हृदि वासस्यैव परिणामरूपेण (साधारणो मनुष्योऽपि) सिद्ध, ऋषिः, देवता, नाथः इत्यादिषु काञ्चित् पदवीं विन्दते, तथा स विजानाति यत् धरत्याकाशयो र्धवलवृषभरूप्याधारः स प्रभुरेव यः सर्वेषु द्वीपेषु, लोकेषु, पातालेषु च व्यापको विष्णुः। (गुणकीर्तने योजयित्वा साधारणो मानवोऽपि श्रेष्ठाम् अध्यात्मिकाम् अवस्थां प्राप्नुयात्। तस्य साक्षात् प्रतीतं भवति यत् प्रभुः सर्वेषु खण्डान्, ब्रह्माण्डांश्च व्याप्नोति, धरत्याकाशौ संधारयति च। एतेन प्रकारेण सर्वत्रेश्वरस्य दर्शनं कुर्वाणं मृत्यो र्दरोऽपि न त्रासयेत्।)

सुणिऐ ईसरु बरमा इंदु ॥ सुणिऐ मुखि सालाहण मंदु ॥
सुणिऐ जोग जुगति तनि भेद ॥ सुणिऐ सासत सिम्रिति वेद ॥

नानक भगता सदा विगासु ॥ सुणिऐ दूख पाप का नासु ॥९॥


श्रवणेन ईश्वरो ब्रह्मा चेन्द्रः। श्रवणेन मुखात् स्तौति मन्दः। 
श्रवणेन योग-युक्तिस् तनु-भेदः। श्रवणेन शाश्वतः स्मर्यते वेदः। 
नानक भक्तस्य सदा विकासः। श्रवणेन दुःख-पापयो र्नाशः।

हे नानक ! (नाम्ना सह प्रीतानां) भक्तानां हृदयेषु सदैव प्रसन्नता ऽवतिष्ठति। (यतोहि) ईश्वरस्य गुणकीर्तनं स्तुतिं च श्रुत्वा (मनुष्यस्य) दुःखानां पापानां च नाशो जायते। अकालपुरुखस्य नाम्ना सह श्रवणस्य योजनेन साधारणो मनुष्योऽपि शिवो, ब्रह्मा, इन्द्र इत्यादिषु काञ्चित् पदवीं प्राप्नुयात्, दुर्जनस्य मुखाद् अपि ईशः स्तुतिः स्रवितुम् आरभते, (साधारणी-बुद्धि-युक्तो जनोऽपि) शरीरस्यान्तरङ्गस्य गहनं तथ्यं (भावेन, अक्षि, कर्णः, नासिका, जिह्वादीनाम् इन्द्रियानां क्रियाकलापं विकारांश्च) विज्ञातुम् आरभते। प्रभुना मेलनस्य युक्ति र्अवगम्यते, शास्त्राणां, स्मृतीनां, वेदानां च बोध उपजायते (भावेन, धार्मिक-ग्रन्थानां यथार्थम् उत्कृष्टं चिह्नं तदावगम्यते यदा वयं नामनि श्रवणं योजयामः, नो चेत् स्थूलाक्षराणि हि पठामः, तन्मयतां नाश्नुमहे, यं भावम् आसाद्य तेषां ग्रन्थानां सृजनं भूतं स्यात्, तं भावं न सेवामहे

No comments:

Post a Comment

गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सू...