अङ्गः ३


सुणिऐ सतु संतोखु गिआनु ॥
सुणिऐ अठसठि का इसनानु ॥
सुणिऐ पड़ि पड़ि पावहि मानु ॥
सुणिऐ लागै सहजि धिआनु ॥
नानक भगता सदा विगासु ॥
सुणिऐ दूख पाप का नासु ॥१०॥

श्रवणेन सत्य-सन्तोषौ ज्ञानम्। श्रवणेनाऽष्टषष्ठौ स्नानम्। 
श्रवणेन सुपाठितानाम् अपि मानम्। श्रवणेन लग्नं सहजतया ध्यानम्। 
नानक भक्तस्य सदा विकासः। श्रवणेन दुःख-पापयो र्नाशः।

हे नानक ! (अकालपुरुषस्य नाम्नि सुरति र्येषाम् उद्भूतस्तेषां) भक्तानां हृत्सु सदैवाऽनन्दो निवसति। (यतोहि) अकालपुरुषस्य गुणकीर्तनं श्रुत्वा (मनुष्यस्य) दुःखपापा विनश्यन्ति। विधातु र्नाम्ना सहयोगेन (हृदि) दानं (दानस्य स्वभावः), सन्तोषः, प्रकाशश्च प्रकटाः भवन्ति, यथा ह्यष्टषष्ठौ तीर्थेषु स्नानं स्युः (अर्थात्, अष्टषष्ठेस्तीर्थानां स्नानं नापजप एवान्तर्भूतम्)। य आदरो (मनुष्यो विद्यां) पठित्वा पठित्वाऽर्जयति, तं भक्तो ऽकालपुरुषस्य नामनि संयुज्य हि प्राप्नोति। नामश्रवणस्य फलयोगेन चित्तवृत्ति र्अदोलायां हि स्थित्यां निलयति। (‘सहज-इत्यस्य अर्थः सः स्वभावः यः शुद्ध-स्वरूपेण आत्मना सह जायते। सः शुद्धसत्त्वात्मनो मूलधर्मः। मायायाः त्रयाणां गुणानां परस्तात् तुरीयाऽवस्था सा। आन्दोलनरहिता, शान्ता सत्त्वसम्पन्नास्ति सहजावस्था। सत्य इत्यस्य पदस्याऽर्थत्रयम् अस्ति। संस्कृते अस्-धातो र्अर्थेषु त्यागः इत्यन्यतमः। अतः तस्य प्रयोजने दानम् अपि सम्पद्यते। सन्तोषगुणस्य दानगुणेन सह गहनः सम्बन्धः, यतः यस्य हृदि सन्तोषो न वसति, सः किं दातुं शक्नुयात् ? यः स्वयं तृष्णया मारिता, सः स्वहस्तेन अन्यस्मै किं दद्यात् ? ‘सत्-धातो र्द्वितीयार्थः स्वच्छं शौचं पवित्रं दृढव्रतं चाचरणम् इति। तृतीयश्चार्थः भुवि, अर्थात् सत्त्वम् अस्तित्वम् इति। अत्र सोपानं इमं भावं सम्पादयति, यत् नामनि यः सुरतिम् अश्नुते तस्य मनो विशालं भवति, विवशानां सेवया सन्तोषेण तस्य मुख्य-जीविका भवति। नामनि अवगाहनं ह्यष्टषष्ठौ तीर्थेषु स्नानसमं भवति। जगति कस्यापि प्रतिष्ठा-सत्काराणां चिन्ता न रहति। मनः सहजावस्थायाम् अदोलं मग्नम् अवतिष्ठति।)

सुणिऐ सरा गुणा के गाह ॥ सुणिऐ सेख पीर पातिसाह ॥
सुणिऐ अंधे पावहि राहु ॥ सुणिऐ हाथ होवै असगाहु ॥
नानक भगता सदा विगासु ॥ सुणिऐ दूख पाप का नासु ॥११॥

श्रवणेन हि सरसो गुणग्राहः। श्रवणेन स्थविरो ज्येष्ठः पादशाः। 
श्रवणेन अन्धाः प्राप्तमार्गाः। श्रवणेन हस्ता लब्धगूढाः। 
नानक भक्तस्य सदा विकासः। श्रवणेन दुःख-पापयो र्नाशः।

हे नानक ! (अकालपुरुषस्य नाम्नि सुरति र्येषाम् उद्भूतस्तेषां) भक्तानां हृत्सु सदैवाऽनन्दो निवसति। (यतोहि) अकालपुरुषस्य गुणकीर्तनं श्रुत्वा (मनुष्यस्य) दुःखपापा विनश्यन्ति। अकालपुरुषस्य नाम्नि सुरति र्यस्य युक्ता, सः (साधारणो मनुष्यः) अनन्त-गुणानां विज्ञाता भूत्वा स्थविरस्य, ज्येष्ठस्य विचक्षणस्य, शासो वा पदवीं प्राप्नोति। अन्धा ज्ञानहीनाश्चापि (अकालपुरुषेण सह मेलनस्य) मार्गम् अन्विष्यन्ति यत् तन् नाम्न आशिषा भवति। अकालस्य पुरुषस्य नाम्नि योगात् संसारस्यास्य भवसागरस्य तत्त्वं विज्ञायते। (यावत् नाम्नि सुरति र्युज्यते, तावन् मनुष्यः प्रभुगुणानां सिन्धाव् अवगाहते। संसारो ऽगाध-समुद्रः, यत्रेश्वराद् विरहितो जीवो ऽऩ्धेन सदृशो हस्तपादान् आस्फालयति। परन्तु नाम्ना सह युक्तो जीवो जीवनस्य सद्गतिम् अन्विष्यति।)

अवधेयम् -   १२-तः १५-पर्यन्तं सोपानानां विषयवस्तु एकया शृङ्खलया वर्तते।


मंने की गति कही न जाइ ॥ जे को कहै पिछै पछुताइ ॥
कागदि कलम न लिखणहारु ॥ मंने का बहि करनि वीचारु ॥
ऐसा नामु निरंजनु होइ ॥ जे को मंनि जाणै मनि कोइ ॥१२॥

श्रद्धावतः का गतिः, कथनं न जायेत। यः कोऽपि कथयेत् पश्चात् स तप्येत। 
कर्गदे न तूलिकया लेखितारः। श्रद्धावत उपविश्य कृत्वा विचारः। 
तथा नाम निरञ्जनं स्यात्। यो मनसि ध्यायति स जानीयात्।


तस्य मनुष्यस्योन्नताम् आध्यात्मिकाम् अवस्थां वर्णयितुं न शक्येत, यः (अकालपुरुषस्य नामनि) श्रद्धधानोऽजायत (भावेन, यस्य यत्नः नाम्नो निमित्तं लग्नो जातः)। यदि कश्चित् वर्णयत्यपि, तर्हि तस्य पश्चात्तापो भवति (यन् मम प्रयासः ह्रस्व आसीद् इति)। (मनुष्याः) मिलित्वा नामनि मग्नाम् आत्मिकाम् अवस्थाम् अनुमातुं प्रयतन्ते, परन्तु कर्गदे लेखन्या कोऽपि मनुष्यो लेखितुम् असमर्थः। अकालपुरुषस्य नाम मायायाः प्रभावाद् अत्युन्नतं वर्तते, (तस्मिन् युञ्जानस्याऽवस्थाऽपि उन्नतैव, किन्तु इदं तदैव अवगम्यते) यदा कश्चित् स्वस्य अन्तः सङ्घर्षित्वा अवलोकते। (प्रभुर् मायायाः प्रभावात् अनन्तमितः परस्ताद् विचरति। यस्य नामनि सुरतिं यञ्जानस्य मनसि प्रभुनिमित्तः सङ्घर्षो लग्नः, तस्याऽत्माऽपि मायाया आघातात् परम् उद्धृतं भवति। यो मनुष्यः प्रभौ लगति, तस्य आत्मिकाम् उच्चतां न कश्चित् विवर्तुं पारयेत्, न कश्चित् लेखितुं च।)

मंनै सुरति होवै मनि बुधि ॥ मंनै सगल भवण की सुधि ॥
मंनै मुहि चोटा ना खाइ ॥ मंनै जम कै साथि न जाइ ॥
ऐसा नामु निरंजनु होइ ॥ जे को मंनि जाणै मनि कोइ ॥१३॥

श्रद्धया सुरतिर् मनो बोधयति। श्रद्धया सकलभुवनं संजानाति। 
श्रद्धावतो न जातु मुखं चोटति। श्रद्धावान् न यमेन सह याति। 
तथा नाम निरञ्जनं स्यात्। यो मनसि ध्यायति स जानीयात्।


यदि मनुष्यस्य मनसि प्रभोर् नाम्नो ऽध्यवसायः वसेत्, तर्हि सुरतिर् औन्नत्यं प्राप्नुयात्, तस्य मनसि जागृतिर् आयाति (भावेन, मायायां सुप्तो मनुष्यो जागर्ति), सर्वेषां भुवनानां लोकानां संज्ञानम् उपजायते तस्मिन् (यत् सर्वत्रेश्वरो व्याप्नोति)। संसारस्य विकाराणाम् आघातास् तस्य मनुष्यस्य मुखे नापतन्ति (अर्थात्, सांसारिका विकारास् तं दमयितुं न शक्नुयुः), तथा यमैस् तस्य लेखा नावशिष्यते (भावेन, स जन्म-मृत्ययोश् चक्रान् निस्तीर्णो भवति)। अकालपुरुषस्य नाम मायायाः प्रभावाद् तावद् परं वर्तते, (यत् तस्मिन् युञ्जानस्याऽवस्थाऽपि उन्नता भवति, किन्तु सत्यम् इदं तदैव अवगम्यते) यावत् कश्चित् स्वस्य मनसि हरेर् नाम्नो ऽध्यवसायम् सम्पादयेत्। (प्रभोश्चरणयोः प्रीतिर् मानवस्य मनः प्रज्वालयति, तस्य सर्वत्र संसारे परमात्मा हि दरीदृष्यते। तस्य मुखे विकाराणां प्रहाराः नापतन्ति, तथआ न मृत्युस् तं भीषयति।)


मंनै मारगि ठाक न पाइ ॥ मंनै पति सिउ परगटु जाइ ॥
मंनै मगु न चलै पंथु ॥ मंनै धरम सेती सनबंधु ॥
ऐसा नामु निरंजनु होइ ॥ जे को मंनि जाणै मनि कोइ ॥१४॥

श्रद्धावतो न मार्गान्तरायः। पतिसितस् त्यजति प्रकटं कायः। 
श्रद्धावतो मार्गो न चलतः पन्थाः। तस्यर्जुधर्मेण सेतुबन्धः। 
तथा नाम निरञ्जनं स्यात्। यन् मनो ध्यायति तज् जानीयात्।


यस्य मनुष्यस्य मनसो नामनि व्यासङ्गो प्रभवति, तस्य जीवने विकारै र्विघ्नाः नापतन्ति, सः शोभितो भूत्वा ससम्मानं आर्यमार्गेण (संसारात्) प्रयाति। तस्य मनुष्यस्य धर्मेण सह ऋजु-योगः सिध्यति, पुनः सः (जगतो विभिन्नैर् धार्मिकैः सम्प्रदायैर् उपदिष्टेषु) मार्गेषु पथिषु किमर्थं चलेत् ? (भावेन, तस्य हृद्गुहायां पुनर् द्वन्द्वो नावशिष्यते यद् एषः पन्थाः शुद्ध इतरश्चाशुद्ध इति।) अकालपुरुषस्य नाम मायायाः प्रभावाद् तावद् परं वर्तते, (यत् तस्मिन् युञ्जानस्याऽवस्थाऽपि उन्नता भवति, किन्तु सत्यम् इदं तदैव अवगम्यते) यावत् कश्चित् स्वस्य मनसि हरेर् नाम्नो ऽध्यवसायम् सम्पादयेत्। (स्मृतेर् आशिषा यस्य कस्यापि मनुष्यस्य परमात्मनि प्रेम प्रभवति, तस्मात् स्मरणरूपिणा धर्मेण सह तस्य तावद् गभीरः संबन्धो जायते यत् पुनर् लक्ष्यवेधनात् किमपि तं विचलितं कर्तुं न शक्नुयात्। अपि चेह परत्र वा वर्त्मनस् तं ऋजुपथो भ्रष्टं कर्तुं न शक्नुयात्।)


मंनै पावहि मोखु दुआरु ॥ मंनै परवारै साधारु ॥
मंनै तरै तारे गुरु सिख ॥ मंनै नानक भवहि न भिख ॥
ऐसा नामु निरंजनु होइ ॥ जे को मंनि जाणै मनि कोइ ॥१५॥

श्रद्धया साधयेन् मोक्ष-द्वारम्। श्रद्धया परिवारं साधारम्।
तया तारयेद् गुरुस् तीर्त्वा शिष्यम्। श्रद्धया नानक न भवेद् दुर्भिक्षम्।
तथा नाम निरञ्जनं स्यात्। यन् मनो ध्यायति तज् जानीयात्।


यदि मनसि प्रभोर् नाम्नः सिषाधयिषा लगेत्, तर्हि (मनुष्यः) अनृतेर् मोक्षस्य पन्थानम् अन्विष्यति। (ईदृशो मनुष्यः) स्वकुटुम्बायाऽपि (अकालपुरुषस्य) आधारमूलं दृढीकुरुते। नामनि मनसो ऽवगाहनेन हि सत्गुरुः (अपि स्वयं संसार-सागरं) लङ्घयति, तथा शिष्यान् तारयति। नामनि मनसो योगेन हि, हे नानक!, मनुष्यः सर्वस्मै वस्तुने भिक्षमानो नाटति। अकालपुरुषस्य नाम मायायाः प्रभावाद् तावद् परं वर्तते, (यत् तस्मिन् युञ्जानस्याऽवस्थाऽपि उन्नता भवति, किन्तु सत्यम् इदं तदैव अवगम्यते) यावत् कश्चित् स्वस्य मनसि हरेर् नाम्नो ऽध्यवसायम् सम्पादयेत्। (अस्याः साधनाया आशिषा तानि सर्वाणि बन्धनानि विस्रंसन्ते यानि प्रभुतो दूरतां जनयन्ति स्म। ईदृशः साधनारतो मनुष्यो न केवलम् आत्मानं त्रायते, परं स्वकुटुम्बस्य जीवान् अपि सहैव नयति। दत्तम् इदं यो गुरोर् लभते, सः कदापि प्रभोर् द्वाराद् विच्छिद्य अन्यत्र न भ्रमति।)


पंच परवाण पंच परधानु ॥ पंचे पावहि दरगहि मानु ॥
पंचे सोहहि दरि राजानु ॥ पंचा का गुरु एकु धिआनु ॥

पञ्चने प्रवणयतः पञ्च-प्राधान्यम्। पञ्चना प्राप्तम् आब्रह्मसभे मानम्।
पञ्च शुभायते राज्ञो द्वारम्। पञ्चनां गुरुर्एको हि ध्यानम्।


अत्र पञ्चन् इत्यस्य अर्थः सिंहः (मनुष्येषु)। अर्थान्तरं विष्णोर् अभिधेयम्। किञ्च, यः पञ्चस्तारम् अतीत्य हरौ विलीनो ऽवतिष्ठति, सः पञ्चः – ते स्ताराः नाम-श्रवणं, मननं, गुण-कीर्तनं, गुरोरादेशं परिपाल्य तस्य प्रसादसेवनं, अपि च प्रेमेति। येषां श्रुतिः सर्वदा नाम्नो ऽनुसंदधाना तिष्ठेद्, एवं च प्रभौ येषां सिषाधयिषा लगेत्, त एव मनुष्याः (इह लोके) यशस्विनः स्युः, गणानां नायकाः स्युश्च। अकालपुरुषस्य सभायाम् अपि त एव सिंहजनाः मानं सम्मानं च प्राप्नुवन्ति। राजसभायाम् अपि त एव सिंहजनाः शोभनीयाः सन्ति। एषां सिंहजनानां श्रुतेर् लक्ष्यं गुरुर् एव (भावेन, तेषां श्रुतिर् गुरुशब्द एव तिष्ठति, गुरुशब्देन सहयोगे स्थातुमेव तेषां लक्ष्यम्)।


जे को कहै करै वीचारु ॥ करते कै करणै नाही सुमारु ॥

येन केनापि वर्ण्यते वा क्रियते विचारः। कर्तुः करणस्य न हि कोऽपि स्मारः।

(परन्तु गुरुशब्दे योगस्थस्यैषः परिणामो भवितुं न शक्यते येन कोऽपि मनुष्यः प्रभुना रचितायाः सृष्टेर् अन्तः प्राप्येत) अकालपुरुषस्य शक्तीनां कापि लेखा नास्ति (भावेन, अन्तं प्राप्तुं न शक्येत), कामं कोऽपि कथयेद् अथवा विचारयेत् (परमात्म्नस् तस्य शक्ततीनां च सीमान्वेषणं मनुष्यस्य जीवनस्योद्देश्यं न भवितुम् अर्हेत्)।


अवधेयम् – प्राचीनकाले बहव ऋषयो मुनयश्च वने तपः कुर्वन्ति स्म, य उपनिषदो ऽरचयन्। इमानि अतिपुरातनानि धर्मपुस्तकानि सन्ति। बहुषु विचारोऽयं कृतो यत् जगत् कदा निर्मितं, किमर्थं निर्मितं, कियत् बृहद् अस्तीत्यादयः। भक्तिम् आचरितुं गता ऋषयो भक्त्याः स्थाने कस्मिंश्चिद् ईदृशे कार्ये व्यस्ताऽभूवन् यन् मनुष्यस्य चिन्तनात् परस्तात् वर्तते। अत्र सद्गुरुर् इमं दौर्बल्यम् इङ्गितं कुरुते। एतादृशीनां निरर्थकानां प्रयत्नानाम् एव फलम् आसीद् यज् जना मन्तव्यम् इदं कल्पितवन्तः यदस्माकं पृथिवीं धवल इति वृषभो धारयन्नस्तीति। उल्लेखमिदम् उद्धृत्य गुरुर् इदं खण्डयित्वा वक्ति यत् प्रकृतिर् अनन्तोऽस्ति, तथा तस्या रचनाकारोऽपि अनन्तो वर्तते।


धौलु धरमु दइआ का पूतु ॥ संतोखु थापि रखिआ जिनि सूति ॥
जे को बुझै होवै सचिआरु ॥ धवलै उपरि केता भारु ॥
धरती होरु परै होरु होरु ॥ तिस ते भारु तलै कवणु जोरु ॥

धवलो धर्मो दयायाः पुत्रः। सन्तोषं स्थाप्य रक्ष्येत येन सूत्रः।
यः कोऽपि बोधेत भवेत् सत्यार्हः। धवलस्योपरि कियान् भारः।
धरती-वोढा परस्ताद् वोढारः। तद्भारस्योपर्यधः क आधारः।


(अकालपुरुषस्य) धर्मरूप्य् अटलो नियमो हि स धवलर्षभो ऽस्ति (यः स्मृतिशास्त्राद्यनुसारं सृष्टिं धारयन्नस्ति)। (धर्मोऽसौ) दयायाः पुत्रोऽस्ति (भावेन, अकालपुरुषः स्व-कृपया सृष्टेर् धरणाय धर्मरूपेण नियमान् अदात्)। यथा सूत्रे मणिगणा धृतास्, तथाऽसौ धर्मः सन्तोषं जनयित्वा मर्यादा रक्षति। यदि कोऽपि मनुष्य (उपरितनान् विचारान्) बोधेत, तर्हि सः स्वान्तःकरणे ऽकालपुरुषस्य प्रकाशस्य पात्रत्वं गच्छेत्। (अन्यथा, समालोच्य पश्य यद्) वृषभे धरत्याः कियान् अनन्तो भारो वर्तते (स विवश इयद् भारं कथम् उत्थापयेत्?), (अपरं यदि धरत्या अधो वृषभस् तिष्ठति, तं वृषभं धर्तुं नीचे पुनर् धरती भवेत्, तस्याः) धरत्याः इतोऽपि वृषभास्, तेषामपि धरत्यः, पुनर् वृषभाः, (एवं रीत्या अन्ततोगत्वा) वृषभस्याऽधारो भवितुं कस् तिष्ठति? एवम् अनवस्था स्याद्यन् मूलधारणकारणं किमिति।

जीअ जाति रंगा के नाव ॥ सभना लिखिआ वुड़ी कलाम ॥
एहु लेखा लिखि जाणै कोइ ॥ लेखा लिखिआ केता होइ ॥
केता ताणु सुआलिहु रूपु ॥ केती दाति जाणै कौणु कूतु ॥
कीता पसाउ एको कवाउ ॥ तिस ते होए लख दरीआउ ॥

जीवा जाति-रङ्ग-नाम्नाम्। चलन्ती लेखास्ति सर्वेषाम्।
तां लेखां कस्तु जानीयात्। लेखा लिखिता कियती स्यात्।
कियत् तस्याः सुन्दर-रूपम्। कियन् न जाने को मायाद् दत्तम्।
प्रसारो ऽकार्य् एक-शब्देन। उद्भवन्ति सिन्धुलक्षं तेन।


(सृष्टौ) बहूनां जातीनां, रङ्गानां (प्रकाराणां), नाम्नां च जीवाः सन्ति। तेषां सर्वेषाम् एक-तन्तुना (अकालपुरुषस्य प्रकृतेर्) लेखा लिखिताऽस्ति। परन्तु विरलो हि कश्चिन् मनुष्यस् तां लेखां लेखितुम् अर्हति (भावेन, परमात्मनः प्रकृतेर् अन्तः कोऽपि जीवो ज्ञातुम् अशक्तः)। (यदि) लेखा लिखिता (अपि भवेत्, तथापि नाऽनुमातुम् शक्नुयाद् यत् सा) कियती बृहती स्यात्। अकालपुरुषस्याऽनन्तं बलम्, अनन्तं सौन्दर्यम्, अनन्तं च तस्य दानम्। अस्य कः अनुमानं कर्तुं शक्नुयात् ? (अकालपुरुषः) स्वादेशेन हि सर्वं संसारं निरमात्, तस्याऽदेशगणेन हि जीवनस्य लक्षाः सिन्धवो निर्मिताः। 

कुदरति कवण कहा वीचारु ॥ वारिआ न जावा एक वार ॥
जो तुधु भावै साई भली कार ॥ तू सदा सलामति निरंकार ॥१६॥

केन वीर्येण कथनं विचारः। मेध्यो न जायेय एक-वारः।
यं त्वं भावयेत् स भद्रकारः। त्वं सदा स्वस्थो निरङ्कारः।

(तर्हि) मम का शक्तिर् यया (कर्तुः सामर्थ्यस्य) विचारः क्रियेत ? (हे अकाल पुरुष!) अहं तु एकवारस् तुभ्यं मेध्यो होतव्यो भवितुं नार्हामि (अर्थात्, मम अस्तित्वमेवाऽतीव तुच्छम् अस्ति)। हे निरङ्कार! त्वं सदा अटलोऽसि, यत् कर्म ते रोचेत, तदेव सर्वकल्याणकारि (भावेन, तव प्रसादे स्थानम् एवोचितम्)। (भाग्यवन्तस् ते मनुष्या ये गुरुणोपदिष्टं मार्गं स्वजीवनस्योद्देश्यभूतं साधितवन्तः, ये नामनि सुरतिं युक्तवन्तः, तथा च ये परमात्मना सह प्रेम्णो योगं बद्धवन्तः। अस्मिन् मार्गे चरतां प्रभोः प्रसादे भवितुं हि शोभा। एषो नामस्मरणरूपी धर्म एव तेषाम् उपजीविका भवति, यत् साधयित्वा ते सन्तोषेण जीवनं यापयन्ति। परन्तु गुरुणा शिक्षिते मार्गे चलनं प्रभोः सृष्टेर् अन्तस्य प्राप्त्या न जातु परिणमते। अत्र तु यावद् अग्रे गच्छेत् तावद् अनन्ता भातीश्वरस्य सृष्टिः। वस्तुत, एतादृशां निरर्थकानां प्रयत्नानाम् फलस्वरूपेण जनसामान्यः मिथ्याबोधम् इदम् अरचयद् यद् अस्माकं पृथिवी धवलर्षभस्य पृष्ठे स्थितेति। परमात्मनस् तथा तस्य सृष्टेर् अन्तस्याऽन्वेषणं मनुष्यस्य जीवनस्य मनोरथो भवितुं नार्हति।)

असंख जप असंख भाउ ॥ असंख पूजा असंख तप ताउ ॥

असङ्ख्या जपे ऽसङ्ख्या भावे। असङ्खयाः पूजायाम् असङ्ख्यास् तपसि रते।

(अकालपुरुषस्य रचनायाम्) अगणिता जीवास् जपन्ति, अनन्ता जीवा (अन्यैः सह) स्नेहभावेन वर्तन्ते। कतिचन जीवाः पूजां कुर्वते। एवम् अगण्या जीवास् तपसि साधनां कुर्वते।

असंख गरंथ मुखि वेद पाठ ॥ असंख जोग मनि रहहि उदास ॥

असङ्ख्यैर् ग्रन्थिनां मुखैर् वेदपाठः। असङ्ख्यैर् योगीनां मनसा उदासः।


अनन्ता जीवा मुखेन वेदानाम् अन्यधार्मिकग्रन्थानां च पाठं कुर्वते। योगसाधका अनन्ता मनुष्याः स्वमनसि (मायां प्रति) उपरताः संस्थिताः।

No comments:

Post a Comment

गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सू...