अङ्गः ५

 

किव करि आखा किव सालाही किउ वरनी किव जाणा ॥
नानक आखणि सभु को आखै इक दू इकु सिआ णा ॥

कथंकारम् आख्यायां स्तुवीय च कथमु। को वर्णी-भूय तं जानीय कथमु।

नानक! आख्यानं सर्वे ख्यायुः। प्रत्येको ऽपरस्मात् पटुः॥


कथंकारम् (अकालपुरुषस्योपबृंहणम्) उदीर्यतां मया, केन विधिना तस्य महिमानं प्रशंसेयम्, (अकालपुरुषस्य महत्त्वं) कथं विवृणुयां तथा केन कर्मणा तम् अधिगच्छेयम् ? हे नानक! सर्वो जीवः स्वम् अन्येषाम् अपेक्षया बुद्धिमांश्चिन्तयित्वा (ऽकालपुरुषस्य गुरुत्वं) वर्णयितुं प्रयतते (परन्तु नैवं कर्तुं शक्नुयात्)।


वडा साहिबु वडी नाई कीता जा का होवै ॥
नानक जे को आपौ जाणै अगै गइआ न सोहै ॥२१॥
बृहान् स््वामी बृहांश्च न्यायः। कृतं येन तत् भवेत्।
नानक यः स्वेन जिज्ञासेत। अग्रे गत्वा न शोभेत॥

अकालपुरुषः सर्वेभ्यः उन्नतः राजते, तस्य प्रशंसापि उन्नतविषयः। यत्किमपि जगति वर्तमानो ऽस्ति, सर्वं तेनैव क्रियमाणम्। हे नानक ! यदि कोऽपि स्व-बुद्ध्या (प्रभोर् बृहत्त्वम् अधिगन्तुं) यतेत, तर्हि अकालपुरुषस््य देहलीं प्राप्य सः मानं न लप्स्यते। 

पाताला पाताल लख आगासा आगास ॥
ओड़क ओड़क भालि थके वेद कहनि इक वात ॥ 

परपातालात् पाताललक्षम् आकाशात् परम् आकाशाः।

ओक ओकोऽन्विष्यन् ग्लानम् इति वेदानाम् एकवार्ता।

(सर्वे) वेदा एकजिह्वया वदन्तः सन्ति, “पातालानाम् अधस्तादपि लक्षाः पातालाः विद्यन्ते, तथाकाशानां परस्तात् लक्षा आकाशाः। अनन्ता ऋषयो मुनयश्च जगतो ऽन्तिमम् आश्रयम् अन्विष्यन्तः श्रान्ता जाताः (परन्तु सफलतां न प्रापुः)।”

सहस अठारह कहनि कतेबा असुलू इकु धातु ॥
लेखा होइ त लिखीऐ लेखै होइ विणासु ॥

सहस्राष्टादशेति ग्रन्थेतरा आदिर् एको धाता।

लेखा समभविष्यच् चेद् अलेखिष्यद् विनश्येत् परं लेखा

(म्लेच्छानां – शूलितशवोपासकानां इत्यादीनां - च चत्वारो) ग्रन्थाः कथयन्ति यत् “संभूया ऽष्टादश-सहस्राणि लोकाः वर्तन्ते, येषाम् आरम्भो कालपुरुष” इति। (किन्तु वस्तुतः) “सहस्राणि”, “लक्षाणि” च पदानि प्रकृत्या गणनायाम् उपयोक्तुं न शक्यन्ते। अकालपुरुषस्य लेखा तदैव लेखितुं शक्यते यदा संभवेत्। (लेखेयं तु कदापि न संभवेत्, लेखां कुर्वत्यः) सङ्ख्या एव समाप्तिं गच्छन्ति (ज्ञातानि सङ्ख्यावाचकानि पदान्य् एव समाप्नुवन्ति)।

नानक वडा आखीऐ आपे जाणै आपु ॥२२॥

नानक बृहदित्याख्यातम् आत्मनात्मानं जानीते

हे नानक! यम् अकालपुरुषं जगति सर्वे बृहानित्य् आख्यान्ति, सः स्वयं हि स्वं जानीते। आत्मनो महिमानं स एव जानीते। प्रभोः शक्तेर् व्याख्यानं कुर्वाणाः सहस्राणीति लक्षाणीति वा सङ्ख्या उपयोक्तुं न प्रभवन्ति। तावती अनन्ता शक्तिरस्ति सा यत् लेखाबद्धां करणे सङ्ख्या एव अपर्याप्ताः सिध्यन्ति।

सालाही सालाहि एती सुरति न पाईआ ॥
नदीआ अतै वाह पवहि समुंदि न जाणीअहि ॥

श्लाघं श्लाघं तावन्मात्रां न कोपि श्रुतिं प्राप।

वाहिण्यो नद्यः प्राप्य समुद्रं नाभिज्ञायन्ते यथा॥

श्लाघ्यस्य परमात्मनो महत्त्वं श्लाघमानो भक्तोऽपि तावतीं बुद्धिं न प्राप्नोति येनाऽकालपुरुषस्य महिमानः सीमानं ज्ञातुं प्रभवति। तस्य शक्तिं विवृण्वन् श्लाघमानः स्वयम् अकालपुरुषे विलीनो जायते। यथा नद्यः कुल्याश्च समुद्रे मिलन्ति (येन तेषां पृथग् अस्तित्वं नावशिष्यते) ततः ते अग्रे नाभिज्ञायन्ते (मध्य एव विलीना भवन्ति समुद्रस्य च तलम् अप्राप्य)। 

समुंद साह सुलतान गिरहा सेती मालु धनु ॥
कीड़ी तुलि न होवनी जे तिसु मनहु न वीसरहि ॥२३॥

समुद्रेषु वा राजेत वरुणायेत गिरिसमे धने।

कीटसमं न स्याद् यावत् तस्य मनो न विस्मरति॥

समुद्राणां महाराजाधिराजस्य (यस्य कोशेषु) गिरिसमं धनपदार्थानां निधिः स्यात् किन्तु (प्रभोः महिमानं कुर्वाणस्य दृशि) तत् सर्वं कीटसमम् अपि न स्यात् यदि (हे अकालपुरुष!) तस्य भक्तस्य मनसि त्वं न विस्मर्येथाः। (भावेन) अतः दास्येन प्रभोर् अन्तो न प्राप्येत। किन्त्वस्य प्रयोजनं नास्ति यत् परमात्मनो महिम्नो कोऽपि लाभ इति। प्रभोर् भक्त्या मनुष्यस्य राज्ञां महाराजानां वापि पुरतः संभ्रमो न भवति। प्रभोर् नाम्नः पुरतो ऽनन्तं धनमपि तुच्छं प्रतीयते।

अंतु न सिफती कहणि न अंतु ॥ अंतु न करणै देणि न अंतु ॥
अंतु न वेखणि सुणणि न अंतु ॥ अंतु न जापै किआ मनि मंतु ॥


न्तो न गुणानां कथने नान्तः। अन्तो न करणे दाने नान्तः।

अन्तो न वीक्षणे श्रवणे नान्तः। अन्तो न याप्यस् तन्मनसि को मन्त्रः।

(अकाल.पुरुषस्य) गुणानां न कापि सीमा विद्यते, गणनयापि तेषाम्न्तो न प्राप्येत। अकालस्य रचना, तस्य दानस्य अन्तो न प्राप्येत। वीक्षया श्रवणेन वा तस्य गुणान् न पारयेत्। तस्य अकाल.पुरुषस्य मनसि को मन्त्रः, का सूक्तिर् वर्तत इत्यस्यापि विषयस्य रूपरेखा न स्पाशयेत्।

अंतु न जापै कीता आकारु ॥ अंतु न जापै पारावारु ॥

नान्तं ज्ञापयेत् कृत आकारः। नान्तं ज्ञापयेत् पारावारम्।

अकालपुरुषेण जगदिदं निर्मितं परन्त्व् अस्यान्तः, अस्य पारावारं तटे च न दृश्यन्ते।

अंत कारणि केते बिललाहि ॥ ता के अंत न पाए जाहि ॥

अन्तं कालयितुं कति विलपन्ति। तस्यान्तो न प्राप्तो भवति।

कतिचन मनुष्या अकालपुरुषस्य सीम्नः, तस्य दिगन्तम् अन्वेष्टुं व्याकुला भवन्ति, परन्तु ते तानि सीम्नो ज्ञातुं न शक्नुवन्ति।

एहु अंतु न जाणै कोइ ॥ बहुता कहीऐ बहुता होइ ॥

स्यान्तं न जानीयात् कोऽपि। बहुधा कथयति पुनरपि बृंहति

(अकालपुरुषस्य एषां गुणानां) सीमानः (या अनन्ता जीवा अन्विषयन्तः सन्ति) केनापि मनुष्येण नैव प्राप्येरन्। यावद् अयं तत् बृहद् इति कथयन् चलति तावत् तद् इतोपि बृहत्तरम्, इतोऽप्य् अनन्तं प्रतीतुम् आरभते। अतः तद् ब्रह्मेति कथ्यते।

वडा साहिबु ऊचा थाउ ॥ ऊचे उपरि ऊचा नाउ ॥
एवडु ऊचा होवै कोइ ॥ तिसु ऊचे कउ जाणै सोइ ॥

बृहान् प्रभुस् तद् स्थानोच्छृतम्। उच्चत उपरि तन् नामोच्छृतम्

एतावद् उच्चो भवेत् यः कोपि। स एव तम् उन्नतं ज्ञातुमर्हति

अकाल-पुरुषः बहुबृहान् अस्ति, तस्यास्थानम् उच्छृतम् विद्यते। तस्य यशोऽपि उच्चम्। यदि कोऽपि तेन सदृश उन्नतो वर्तेत, स एवाऽकालपुरुषः कियान् उन्नत इति यत् तद् अवगन्तुं शक्नुयात्।

जेवडु आपि जाणै आपि आपि ॥ नानक नदरी करमी दाति ॥२४॥

कियान् महात्मेति जानीयाद् आत्मानम्। नाणक तद्दृष्टेर् आशीर्दानम्।

अकालपुरुषः स्वयमेव जानाति यत् सः कियान् महान् अस्तीति। हे नाण ! (प्रत्येका) आशीस् तस्य अकालपुरुषस्य कृपादृष्टेरेव लभ्यते। प्रभुर् अनन्तगुणानां स्वामी, तस्य रचनाप्य् अनन्ता। यावत् तस्य गुणान् ध्यायेत्, तावत् स इतोऽपि बृहान् प्रतीयेत। जगति न कोऽपि प्रभुरिव महान्, किञ्च सः कियान् महानित्यपि वक्तुं न कोऽपि प्रभवति।

बहुता करमु लिखिआ ना जाइ ॥ वडा दाता तिलु न तमाइ ॥

बहुधा कृपा यस्या लेखनं न जायेत। बृहान् दाता यस्मै तिलो न तर्प्येत।

अकालपुरुषोऽस्ति विपुलं दानं ददानः। तस्य न तिलमात्रं लोलुपता। आशीस् तस्य तावती महती यत् तस्य लेखनेन विवरणम् अशक्यम्।

केते मंगहि जोध अपार ॥
केतिआ गणत नही वीचारु ॥ केते खपि तुटहि वेकार ॥

कतिचिन् मार्गन्ते योधा लोके ऽपारे

कतीनाञ्चन गणना नहि विचारेकतिचित् भोजिनस् तुड्यन्ते विकारे।

अनन्ताः शूरवीरास् तथा ऽन्ये च, येषां गणनाया विचारणापि न क्रियेत, (अकालपुरुषस्य द्वारे) मार्गन्ते ऽन्विष्यन्ति याचन्ते वा। कतिचन जीवाः (तस्य दानम् उपभुज्य) विकारेषु उपभुञ्जाना एव नश्यन्ति।

केते लै लै मुकरु पाहि ॥ केते मूरख खाही खाहि ॥

कतिचन त्यजन्ति कृतकृत्याः। कतिचन मुर्खा अतिभुञ्जानाः।

अनन्ताः जीवाः (अकालपुरुषस्य द्वारः पदार्थान्) प्राप्य भक्तिं त्यजन्ति। स्वसन्तृप्त्यै ईशः श्रेयसः कृतज्ञतां पुनः न प्रकटयन्ति। नैके मूर्खाः च (पदार्थान् गृहीत्वा) निरवधि भुञ्जानाः हि वर्तन्ते, परन्तु न कदापि ईशं दातारं स्मरेयुः।

केतिआ दूख भूख सद मार ॥ एहि भि दाति तेरी दातार ॥

कतीनां दुःखं क्षुत् सदा मारः। एषामपि यूयं दातारः॥

नैकेषां जीवानां सदैव आघातः, कष्टो, बुभुक्षा हि वर्तते दुर्दैवम्। परन्तु हे दातोऽकालपुरुष ! एतान्यपि तवैव आशिषः (यतोहि एतैर् दुःखैरेव मनुष्यस् तव प्रीतिपथे चरितुं शिक्षेत)। 

बंदि खलासी भाणै होइ ॥ होरु आखि न सकै कोइ ॥

मुच्यते तस्य भानेन बन्दी। अन्यद् आख्यायान् न कोऽपि।

अपि च मायामोहरूपिणो बन्धनात् मुक्तिर् अकालपुरुषस्य प्रसादं प्राप्यैव सम्भवति। तस्य प्रसादादृते ऽन्यमार्गं कोऽपि व्याख्यातुं न प्रभवति। 

जे को खाइकु आखणि पाइ ॥ ओहु जाणै जेतीआ मुहि खाइ ॥

यो ऽर्भक आख्यातुं प्रयस्यात्। मुखे कियद् सोढम् इति स जानीयात्।

परन्तु यदि कोऽपि मनुष्यो (मायातो मुक्तेर् अन्यसाधनं) व्याख्यातुं प्रयतेत, तर्हि स एव जानीते यत् तया मूढतया कतिवारं स मुख आहतो जातः। इत्युक्ते ऽनृतान् मोक्तुम् एका गतिर् भगवतः प्रसाद इत्येव, नान्यथा। मूढे ऽन्यथाकारेण मोक्षं प्राप्तुं प्रयतमाने सति वारं वारं वैफल्यम् आस्वाद्य दुःखितो जायेत। अवसादवशात् तस्य मनसि मोक्षस्या ऽवधारणैव परिवर्तिता भविष्यति।

आपे जाणै आपे देइ ॥ आखहि सि भि केई केइ ॥

जानानः सो हि ददानः सो हि। आख्याति इत्थमपि कोऽपि कोऽपि।

(न केवलं अकृतज्ञाः ते) अनेके इत्थमपि वदन्ति यत् अकालपुरुषः स्वयं हि (सर्वेषां जीवानां स्थितिगती) ज्ञात्वा तथा स्वयं हि (यथावश्यकं सहायं) दधाति इति।

जिस नो बखसे सिफति सालाह ॥ नानक पातिसाही पातिसाहु ॥२५॥

येषु दध्यात् गुणकीर्तनं सः। नानक पतीनां ते पातयः॥२५॥

हे नानक! अकालपुरुषः कथं भक्तं वरिवस्यति इति ज्ञातुं तथा वक्तुमेव न शक्यते। सः यं मनुष्यं स्वीयं महिमानम् आभासमात्रेणापि ज्ञापयति सः राज्ञाम् अधिराज इव भवति। भगवन्महिम्नः कीर्तनम् एव तदुपकाराणां शिरोमणिः वर्तते। प्रभुः कियान् महान् अस्तीति तु अचिन्त्यमेव, किञ्च तस्य प्रीतिदायः कियान् महान् इत्यस्यापि वर्णनम् अशक्यम्। जगति ये राजानः आध्राः वा विन्दन्ति भगं, ते सर्वे तस्यैव उपकारेण लाभान्विताः भवन्ति। सामान्यतः जीवस्य प्रार्थनां विनैव सः उपयुक्तं सहायं वितनोति। परन्तु जीवस्य मूर्खतां पश्य! दत्तं भजमानः सः दातारं विस्मरति। इदृशः विकृतमनस्को भूत्वा दुःखं कष्टं च स्वोपरि निमन्त्रयति। एतानि दुःख-कष्टानि अपि भगवतः एव शासनोपहारः, येन मनुष्यः परिवृत्य तत्प्रसादेन चलितुं शिष्ट्वा तस्य महिमानं कीर्तयितुम् आरभेत। अयं महिमा एव सर्वश्रेष्ठः प्रीतिदायः इति अवगन्तव्यम्।

अमुल गुण अमुल वापार ॥ अमुल वापारीए अमुल भंडार ॥


अमुल आवहि अमुल लै जाहि ॥ अमुल भाइ अमुला समाहि ॥

अमूल्य-गुणा अमूल्य-व्यापारः। अमूल्य-व्यापारिणो ऽमूल्य-भण्डारः॥

अमूल्याऽवहमाना अमूल्य-नेतारः। अमूल्य-भक्तस्य तदमूल्य-समाहारः॥

(अकालपुरुषस्य) गुणाः अमूल्याः सन्ति (तन्नाम ते अमेयाः वर्तन्ते)। एषां गुणानां व्यापारस्य (तन्नाम विनियोगस्य, आचरणस्य, प्रचारस्य च) अपि अमूल्य-प्रभावः विद्यते। अकाल-पुरुषस्य गुणानां व्यापारं कुर्वाणा मनुष्या अपि अमूल्याः। तद्गुणानां राशिरपि अमूल्या (तन्नाम अकालस्य गुणानां भगवानेव आश्रयः)। ये मनुष्याः एषां व्यापारार्थं (तन्नाम देवार्चने अन्येषाम् आवहनार्थं) जगति अवतरन्ति, तेषां मूल्याङ्कनं न स्यात्। तेऽपि अति-भाग्यशालिनः ये सर्वस्वं पणीकृत्य ग्राहकाः भवन्ति। ये जनाः अकाल-पुरुषस्य प्रेम्णि जीवन्ति, ये च तस्मिन् चित्त-लीनाः वर्तन्ते, तेऽपि अप्रमेयाः।

अमुलु धरमु अमुलु दीबाणु ॥ अमुलु तुलु अमुलु परवाणु ॥
अमुलु बखसीस अमुलु नीसाणु ॥ अमुलु करमु अमुलु फुरमाणु ॥

अमूल्य-धर्मस् तदमूल्याऽस्थानम्। अमूल्य-तुला तदमूल्य-प्रमाणम्॥

अमूल्याऽशीस् तदमूल्य-चिह्नम्। अमूल्य-कृपाऽमूल्य-शासनम्॥

अकालपुरुषस्य विधानं तथा तस्य राजसभा अमूल्ये स्तः। सा तुलापि अमूल्या तत्प्रमाणं चापि अमूल्यं याभ्याम् असौ जीवानां शुभाशुभ-कर्माणि तोलयति। तस्य आशिषः तथा लोके तेषां चिह्नानि अपि अद्भुतानि। अकालपुरुषस्य अहैतुकी कृपा तथा तस्य कठोर-शासनम् अपि अमिते। (एषु कस्यचिद् अनुमानं न सम्भवति।)

अमुलो अमुलु आखिआ न जाइ ॥ आखि आखि रहे लिव लाइ ॥

अमूल्यामूल्यं नाख्यायात् संसारे । आख्यान् हि कश्चिन् निमज्जेत ध्याने।

अकालपुरुषः सर्वतः परस्तात् विद्यते। तम् अनुमातुं न शक्यते। यो मनुष्यः धिया तम् अनुमातुं तं च प्रमातुं प्रयतते, स निश्चयेन ध्याने एव निमज्ज्य अवतिष्ठति।

आखहि वेद पाठ पुराण ॥ आखहि पड़े करहि वखिआण ॥
आखहि बरमे आखहि इंद ॥ आखहि गोपी तै गोविंद ॥

आख्यान्ति वेदपाठः पुराणाः। कीर्तयन्ति गुरवो व्याख्यानं कुर्वाणाः।

आख्यान्ति ब्रह्मण आख्यान्ति इन्द्राः। आख्यान्ति गोप्यस् तथा गोविन्दाः।

अथ कीदृशैर् आख्यानैः भगवद्ध्यानं साधयेत्? वेदमन्त्राः तम् अकालपुरुषम् आख्यान्ति हि, तथा पुराणा अपि। विद्वांसोऽपि तं विविधप्रकारैः विवृत्य उपदिशन्ति अन्यान्। विविध-लोकेषु बहवो ब्रह्मणः तमेव आख्यान्ति, असङ्ख्या इन्द्राः तथैव च। भगवतो लीलाः अपि कोटिषु लोकेषु तस्यैव अनन्तत्वं क्षणप्रभा इव ईशद्दर्शयन्ति। 

No comments:

Post a Comment

गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सू...