अङ्गः ४


असंख भगत गुण गिआन वीचार ॥ असंख सती असंख दातार ॥

असङ्ख्य-भक्तैर् गुण-ज्ञान-विचारः। असङ्ख्य-सन्तो ऽसङ्ख्य-दातारः।
(अकालपुरुषस्य प्रकृतौ) असङ्ख्या भक्ताः सन्ति, ये अकालपुरुषस्य गुणानां ज्ञानस्य च कीर्तनं कुर्वाणाः सन्ति, विचारयन्तः सन्ति च। तेषु अगण्या हि सद्गुणोपेता दानवीरा वर्तन्ते।

असंख सूर मुह भख सार ॥ असंख मोनि लिव लाइ तार ॥

असङ्ख्य-शूर-मुखा भक्षसाराः। असङ्ख्या मौनं समाधिसंहाराः।

(अकालपुरुषस्य सृष्टौ) अनन्ताः शूरवीरा वर्तन्ते ये स्वमुखेषु (भावेन, संमुखीकृत्य) शास्त्राणां प्रहारान् सहन्ते। अनेका मौनिनः सन्ति, ये निरन्तरं ध्याने मग्ना उपविशन्ति।

कुदरति कवण कहा वीचारु ॥ वारिआ न जावा एक वार ॥
जो तुधु भावै साई भली कार ॥ तू सदा सलामति निरंकार ॥१७॥

केन वीर्येण कथनं विचारः। मेध्यो न जायेय एक-वारः।
यं त्वं भावयेत् स भद्रकारः। त्वं सदा स्वस्थो निरङ्कारः।

प्रभोः सर्वशक्तीनाम् अन्तान्वेषणं दूरं, त्वं जगति तस्य भक्तबन्धिनो, ये जपं, तपः, पूजां धार्मिकग्रन्थानाम् अध्यायं, योगं, समाधिम् इत्यादीन्य् आचरन्तः सन्ति, तान् हि गणयितुम् आरभेथाश् चेत् लेखा समाप्ता न भवेत्।

असंख मूरख अंध घोर ॥ असंख चोर हरामखोर ॥
असंख अमर करि जाहि जोर ॥

असङ्ख्य-मूर्खा अन्धघोराः। परधनगृधन्तो ऽसङ्ख्य-चोराः।
असङ्खयामत्रा निष्पीड्य छोराः ।

(निरङ्कारस्य सृष्टाव्) अनेका महामूर्खाः वर्तन्ते, ये परेषां धनं (चोरयित्वा) भुञ्जते, तथा अनेका एतादृशा मनुष्या अपि सन्ति ये (परेषु) बलाघातं कुर्वन्तस् तान् शोषयन्तो ऽन्तत इहलोकात् प्रतिष्ठन्ते।

असंख गलवढ हतिआ कमाहि ॥ असंख पापी पापु करि जाहि ॥

असङ्ख्य-हन्तारो गल-हस्ता घ्नन्ति। असङ्ख्य-पापिनो दुष्कृत्य यान्ति।

अगण्या रक्तपिपासवो मानवा लोकानां कण्ठान् वेधयन्तः सन्ति, अनेका हि पापिनो मनुष्याश् च पापान् सञ्चित्य (अन्ततो गत्वा) इहलोकाद् अपयान्ति।

असंख कूड़िआर कूड़े फिराहि ॥ असंख मलेछ मलु भखि खाहि ॥

असङ्ख्य-कल्किनो पुरीषे व्रजन्ति। असङ्ख्य-मलभक्षा म्लेच्छाः खादन्ति।

अनेका हि मिथ्याचारिणो दुष्टस्वभाविनो मनुष्या मिथ्यासु हि लिप्ता वर्तन्ते, तथा चाऽनेका दुर्मेधाविनो मनुष्या मलम् (अभक्ष्यं) हि खादन्तः सन्ति।

असंख निंदक सिरि करहि भारु ॥ नानकु नीचु कहै वीचारु ॥

असङ्ख्य-निन्दकाः शिरःसु वहन्ति भारम्। नानक नीच किं कथयेत् विचारम्।

अनेका हि निन्दकाः (निन्दयित्वा) स्वशिरःसु (निन्दाया) भारं वहन्तः सन्ति। (हे निरङ्कार !) अनेका अन्ये जीवा इतोऽपि कुकर्मसु पाशबद्धाः स्युः, मम का सामर्थ्यं यत् तव शक्त्याः पूर्णं विचारं कुर्याम् ? नानको वराकस्तु विचारान् अमून् (उपरोक्तान् तुच्छान्) प्रस्तौति।

वारिआ न जावा एक वार ॥
जो तुधु भावै साई भली कार ॥ तू सदा सलामति निरंकार ॥१८॥

केन वीर्येण कथनं विचारः। मेध्यो न जायेय एक-वारः।
यं त्वं भावयेत् स भद्रकारः। त्वं सदा स्वस्थो निरङ्कारः।

(हे अकाल-पुरुष !), अहं तु त्वयि एकवारम् अपि मोध्यो भवितुं नार्हामि (भावेन, तव अनन्ताः शक्तीः चिन्तयितुम् अपि सामर्थ्यं नास्ति मम)। हे निरङ्कार ! त्वं सदा अटलो हि स्थाणुः। यत् कर्म ते रोचेत, तदेव सर्वकल्याणकारि (भावेन, तव प्रसादे स्थानम् एवोचितम्। तव स्तुतिं कुर्वाणा हि, तव प्रसादे स्थातुं हि अस्माकं जीवानां कल्याणाय कल्पते।) (प्रभोः सर्वशक्तीनाम् अन्तान्वेषणं दूरं, त्वं जगति चोरान्, लुण्ठाकान्, दस्यून्, निन्दकान् इत्यादीन् बन्धिनो हि गणयितुम् आरभेथाश् चेत् लेखा समाप्ता न भवेत्। यावत् जगत् सृष्टं, तदारभ्य अनन्ता जीवा विकारेषु ग्रस्ताश् चलन्त आयान्ति।)

असंख नाव असंख थाव ॥ अगम अगम असंख लोअ ॥
असंख कहहि सिरि भारु होइ ॥

असङ्ख्य-नाम असङ्ख्य-स्थाम। अगम्या अगम्या असङ्ख्य-लोकाः।
असङ्ख्येति कथने शिरो भारि भवेत्।


(प्रकृतेर् असङ्ख्यजीवानाम् अन्येषां चानन्त-पदार्थानां) असङ्खयानि नामानि सन्ति। तेषां स्थामान्य् अप्य् असङ्खानि। (प्रकृतौ) असङ्ख्या हि भुवनानि सन्ति यत्र मनुष्यस्य मार्गो गोचरो वा न भवेत्। (परन्तु, यदि मनुष्यः प्रकृतेर् लेखां निर्मातुम्) असङ्ख्येति पदमप्य् उपयुञ्ज्यात्, तर्हि (तस्य) शिरसि भार आपतति (भावेन, तथापि स्खलति, यतो ह्य् असङ्खेति पदमपि पर्याप्तं न स्यात्।)


अखरी नामु अखरी सालाह ॥ अखरी गिआनु गीत गुण गाह ॥
अखरी लिखणु बोलणु बाणि ॥ अखरा सिरि संजोगु वखाणि ॥
जिनि एहि लिखे तिसु सिरि नाहि ॥ जिव फुरमाए तिव तिव पाहि ॥

साक्षरं नाम साक्षरं स्तुतिः। साक्षरं ज्ञानं गीतं गुणग्राहि।
साक्षरं लिखिता गदिता वाणी। साक्षरं दैवसंयोगं व्याखाति।
य एवं लिखति तस्य शिरसि न हि। यद् आदिशति तत्तत् प्राप्नोषि।


(यद्यपि अकालपुरुषस्य प्रकृतेर् लेखाया निमित्तम् असङ्खेति पदं सुदूरं, किमपि पदम् अपर्याप्तमेव वर्तते, परम्) अकालपुरुषस्य नामाप्य् अक्षराणां द्वारा हि (ग्राह्यं भवेत्), तस्य स्तुतिरप्य् अक्षराणां द्वारा हि कीर्तयितुं शक्यते। अकालपुरुषस्य ज्ञानमप्य् अक्षराणां द्वारा हि (विचारयेत्)। अक्षराणां द्वारा हि तस्य गीतैर् गुणैश्चाऽभिज्ञो भवितुमर्हेत्। तस्य वाण्या लेखनं महाभाणं चाप्य् अक्षराणां द्वारा हि संभवतः। (अत एव असङ्ख्येति पदम् उपयुज्यते, नो चेत्) योऽकालपुरुषो (जीवानां संयोगस्य) इमान्यक्षराण्य् अलेखीत् तस्य स्वकीये शिरसि कोऽपि लेखो नास्ति। (भावेन, कोऽपि मनुष्यस् तस्याऽकालपुरुषस्य लेखां निर्मातुं न पारयति।) यथा यथा सोऽकालपुरुष निर्दिशति, तथैव (जीवः स्वस्य) दैवसंयोगं भुङ्क्ते।

जेता कीता तेता नाउ ॥ विणु नावै नाही को थाउ ॥

यति कृतानि तति नामानि। विना नाम नहि स्थामानि।

अत्र नामेति वस्तुनः सारं लक्षयति, तथा गुणो मूर्तिं लक्षयति। यदा कोऽपि जीवो ऽथवा पदार्थो नाम्ना ऽभिधीयते, तन्नाम तस्य स्वरूपं भावयति। यदा कदापि तस्य नाम स्मरेत्, तदा तस्याऽस्तित्वम् अक्ष्णोः समक्षम् आगच्छेत्। अयं समस्तः संसारः, यम् अकालपुरुषो निरमात्, तस्यैव स्वरूपोऽस्ति। किमपि स्थानम् अकालपुरुषाद् रिक्तो नास्ति। (भावेन, यदपि स्थानं पदार्थं च पश्येत्, तत्रा ऽकालपुरुषस्य स्वरूप एव दृश्यते। सृष्टेः कणः कण ईश्वरस्यैव स्वरूपः।


कुदरति कवण कहा वीचारु ॥ वारिआ न जावा एक वार ॥
जो तुधु भावै साई भली कार ॥ तू सदा सलामति निरंकार ॥१९॥

केन वीर्येण कथनं विचारः। मेध्यो न जायेय एक-वारः।
यं त्वं भावयेत् स भद्रकारः। त्वं सदा स्वस्थो निरङ्कारः।

कतीनां धरतीनां जीवानां च रचनाम् अकारि प्रभुः ? मनुष्याणां कस्यामपि भाषायां तस्य लेखां सङ्कलयितुं पदानि न स्युः। वागपि ईश्वरेण प्रदत्ताऽस्ति, परन्तु सा तस्य गुण-कीर्तन एव शोभते। न जातु मनुष्यः प्रभोर् अन्तं प्राप्नुयात्। पश्य ! अनन्ता तस्य शक्तयः, तथा तासु यत्रापि पश्येत् तत्र स एव स्वयम् उपस्थितो दृश्यते। सः कियान् बृहान्, तस्य रचना च कियती बृहतीति को ऽनुमातुं शक्नुयात् ? (हे अकाल-पुरुष !), अहं तु त्वयि एकवारम् अपि मोध्यो भवितुं नार्हामि (भावेन, तव अनन्ताः शक्तीः चिन्तयितुम् अपि सामर्थ्यं नास्ति मम)। हे निरङ्कार ! त्वं सदा अटलो हि स्थाणुः। यत् कर्म ते रोचेततदेव सर्वकल्याणकारि (भावेनतव प्रसादे स्थानम् एवोचितम्। तव स्तुतिं कुर्वाणा हि, तव प्रसादे स्थातुं हि अस्माकं जीवानां कल्याणाय कल्पते।)

भरीऐ हथु पैरु तनु देह ॥ पाणी धोतै उतरसु खेह ॥

भरितं हस्ते पादे तनुषि देहम्। पानीयेन धौते ऽवतरेत् क्षेयम्।

यदि हस्तः पादः शरीरो वा मलिनो भवेत्, तदा जलेन प्रक्षालनेन तन् मालिन्यम् अवतरति।


मूत पलीती कपड़ु होइ ॥ दे साबूणु लईऐ ओहु धोइ ॥ 

मूत्र-कल्माषी कर्पटश् चेत्। दत्त्वा क्षारं तं धावयेत्।

यदि कोऽपि वस्त्रं मूत्रेण कलुषितं भवेत्, तर्हि फेनकेन घर्षयित्वा तत् प्रक्षाल्येत।

 

भरीऐ मति पापा कै संगि ॥ ओहु धोपै नावै कै रंगि ॥

भरिता मतिः पाप्मनः सङ्गः। तां धावयेन् नाम्नैव रङ्गः।

(परं) यदि (मनुष्यस्य) बुद्धिः पापैः मलिना भवेत्, तर्हि सः पापो ऽकाल-पुरुषस्य नामन्य् अमर-प्रेम्णा एव धाव्येत।


पुंनी पापी आखणु नाहि ॥ करि करि करणा लिखि लै जाहु ॥
आपे बीजि आपे ही खाहु ॥ नानक हुकमी आवहु जाहु ॥२०॥

पुण्यपापीति न पटुवाङ्मात्रम् । कुर्वाणः करणं नयति लेखम्।

आत्मनो बीजस्यात्मना खाद्यम्। नानकादेशेन यातायातम्।

हे नानक! पुण्यः पापीति नामनी निःसारं शब्दजालं नास्ति (भावेन, मृषावादो नास्ति, सत्यं हि) यथा कर्माणि त्वं करोषि तथैव संस्कारान् स्वात्मन्य् अङ्कुरितानि कृत्वा (लिखित्वा) स्वस्य सङ्गे पुरतो नेष्यसि। यत्किमपि बीजं त्वं वपसि, तस्य फलं स्वयमेव भोक्ष्यसे। (स्वस्य बीजानुगुणम्) अकालपुरुषस्य आज्ञाधीनं जन्म-मरणयोश् चक्रे विवर्तसे। सर्वा सृष्टिर् अकालपुरुषस्य नियमानुसारं चाल्यमानास्ति। एषां नियमानां नाम सत्गुरुर् आदेश इत्य् अभ्यधात्। ते नियमा एवं भवन्ति यन् मनुष्यो यस्य प्रकारस्य कर्माणि करोति तदनुगुणं हि फलं प्राप्नोति। स एव स्वस्य भाग्यस्य धुरन्धरः, स्वकर्मानुसारम् आत्मनो ऽन्तः संस्कारान् परिकल्पयति, तथा ताननुगुणं हि जन्ममरणयोश् चक्रे पतितो भवति। अथवा, अकालपुरुषस्य प्रसादे चरित्वा स्वकीयं जन्म संशोधयति। (भावेन, मायायाः प्रभाववशात् मनुष्यो विकारेषु पतति, यस्मात् तस्य मतिर् मलिनीभवति। मालिन्येनाऽनेन शुद्धस्वरूपात् परमात्मनो विच्छिद्य जीवो दुःखितो रहति। नामजपैरेव मनसो मालिन्यमिद धावितुं शक्यते, अन्या गतिर् नास्ति। अतः स्मरणस्य प्रयोजनं तु विकाराणां कल्मषं प्रक्षाल्य मनः प्रभुसङ्गं कर्तुम् अस्ति, न प्रभोस् तस्य रचनायाश्च चरमं प्राप्तुं जीवस्य सामर्थ्यं वर्धयितुं कश्चिदि उपायः।)


तीरथु तपु दइआ दतु दानु ॥ जे को पावै तिल का मानु ॥

तीर्थस्तपो दया दत्तदानम्। यः कः प्राप्नुयात् तिलांशमेव मानम्।

तीर्थयात्राः, तपोमयी साधना, जीवेषु दयाभावः, दानौदार्यम् इत्येतेषु कर्मसु कृतेषु समाजस्याऽदर-सत्कारं कोऽपि लभेत चेदपि, तत् तिलमात्रम् एव वर्तते।

सुणिआ मंनिआ मनि कीता भाउ ॥ अंतरगति तीरथि मलि नाउ ॥

श्रुत्वा मत्वा कृत्वा मनोभावम्। अन्तरङ्गतीर्थे मार्जनेन स्नानम्।

(यः मनुष्यः अकालपुरुषस्य नामन्य्) अनुध्यानं युङ्क्ते, (यस्य मनः नामनि) विलीनं जातम्, (अपि च यः स्व-मनस्य् अकालपुरुषस्य) प्रेम सम्पादितवान्, सः मनुष्य यथा अत्मनो ऽन्तः तीर्थस्थले भृशं मार्जयित्वा स्नातः इति (भावेन, सः मनुष्यः स्वात्मनि वासं कुर्वत्य् अकालपुरुषे योगं कृत्वा सम्यग् रीत्या स्व-मनसो मालिन्यम् अवधुन्वानो वर्तते)।


सभि गुण तेरे मै नाही कोइ ॥ विणु गुण कीते भगति न होइ ॥
सुअसति आथि बाणी बरमाउ ॥ सति सुहाणु सदा मनि चाउ ॥

नहि कश्चिदहं सर्वे तव गुणाः। गुणं विना भवेन् न भक्तिर् हविष्कृता।

स्वस्ति! त्वं हि माया वाणी च ब्रह्मा। सत्यं सदा सुन्दरं प्रसन्नो मनसा।

(हे अकालपुरुष!) यदि त्वं (स्वयं) गुणान् (मयि) नोत्पादयसि तर्हि तव भक्तिर् मया न शक्येत। मम कोऽप्य् आधारो हि नास्ति (येनाहं तव गुणान् गातुं शक्नुयाम्)। सर्वमिदं तवैव महत्त्वम्। (हे निरङ्कार!) तव सदा जयो भवतु! त्वं स्वयमेव मायाविनी वाणी, स्वयमेव ब्रह्मासि। (भावेन, इमां सृष्टिं निर्मापयन्ती माया अथवा वाणी अथवा सृष्टिकर्ता ब्रह्मा, ते त्वत्तः पृथङ् न सन्ति, यथा केचन मन्यन्ते), त्वं सदा स्थाणुः, सुन्दरस् तव मनः सदा प्रसन्नतया परिपूर्णं विद्यते (त्वं हि जगतो रचयिता, त्वं हि जानासीदं कदा रचितवांस्त्वम्)।


कवणु सु वेला वखतु कवणु कवण थिति कवणु वारु ॥
कवणि सि रुती माहु कवणु जितु होआ आकारु ॥

का सा वेला समयः कः। का तिथिः को वारः।

कः स ऋतुर् मासः कः। यस्मिन् बभूवाऽकारः॥

सा का वेलाऽसीत् यस्यां संसारोऽयम् उदभूत् ? कस्मिन् समये, कस्यां तिथौ, कस्मिन् वासर ऋतौ मासे वा भव्य एष आकार उद्बभूव ?

 

थिति वारु ना जोगी जाणै रुति माहु ना कोई ॥
जा करता सिरठी कउ साजे आपे जाणै सोई ॥

तिथिं वारं न योगी जानीते। ऋतुं मासं न कोऽपि।

यः कर्ता सृष्टिं सज्जयामास। स्वयं जानीते सो हि।

(यदा जगत् निर्ममे तदा) का तिथिर् आसीत्, (किं) दिनं (कः वारो वा), एतस्य तथ्यं कोपि योग्यपि न जानीयात्। कश्चिन् मनुष्यो ऽपि न वच्यात् क ऋतुरासीत् तदा को मासो वेति। येन निर्मात्रा जगद् इदम् अजानि, स स्वयं हि जानीते (यज् जगत् कदा रचितम् इति)।

No comments:

Post a Comment

गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सू...